अवनितलं पुनरवतीर्णा स्यात्
संस्कृतगङ्गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धारा: ॥
निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्रसहस्रं समुद्धृतं स्यात्
यान्तु च जन्मविकारा: ॥
ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचारा: ॥
या माता संस्कृतिमूला
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपा सा भवतु
लसतु चिरं सा वाङ्माला
सुरवाणीं जनवाणीं कर्तुं
यतामहे कृतिशूरा: ॥
मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ॥
न भोगभवने रमणीयम्
न च सुखशयने शयनीयम् ।
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ ॥१॥
न जातु दु:खं गणनीयम्
न च निजसौख्यं मननीयम् ।
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ ॥२॥
दु:खसागरे तरणीयम्
कष्टपर्वते चरणीयम् ।
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ ॥३॥
गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे ।
तत्र मया सञ्चरणीयम्
लोकहितं मम करणीयम् ॥४॥